rigveda/3/1/19

आ नो॑ गहि स॒ख्येभिः॑ शि॒वेभि॑र्म॒हान्म॒हीभि॑रू॒तिभिः॑ सर॒ण्यन्। अ॒स्मे र॒यिं ब॑हु॒लं संत॑रुत्रं सु॒वाचं॑ भा॒गं य॒शसं॑ कृधी नः॥

आ । नः॒ । ग॒हि॒ । स॒ख्येभिः॑ । शि॒वेभिः॑ । म॒हान् । म॒हीभिः॑ । ऊ॒तिऽभिः॑ । स॒र॒ण्यन् । अ॒स्मे इति॑ । र॒यिम् । ब॒हु॒लम् । सम्ऽत॑रुत्रम् । सु॒ऽवाच॑म् । भा॒गम् । य॒शस॑म् । कृ॒धि॒ । नः॒ ॥

ऋषिः - गाथिनो विश्वामित्रः

देवता - अग्निः

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

आ नो॑ गहि स॒ख्येभिः॑ शि॒वेभि॑र्म॒हान्म॒हीभि॑रू॒तिभिः॑ सर॒ण्यन्। अ॒स्मे र॒यिं ब॑हु॒लं संत॑रुत्रं सु॒वाचं॑ भा॒गं य॒शसं॑ कृधी नः॥

स्वर सहित पद पाठ

आ । नः॒ । ग॒हि॒ । स॒ख्येभिः॑ । शि॒वेभिः॑ । म॒हान् । म॒हीभिः॑ । ऊ॒तिऽभिः॑ । स॒र॒ण्यन् । अ॒स्मे इति॑ । र॒यिम् । ब॒हु॒लम् । सम्ऽत॑रुत्रम् । सु॒ऽवाच॑म् । भा॒गम् । य॒शस॑म् । कृ॒धि॒ । नः॒ ॥


स्वर रहित मन्त्र

आ नो गहि सख्येभिः शिवेभिर्महान्महीभिरूतिभिः सरण्यन्। अस्मे रयिं बहुलं संतरुत्रं सुवाचं भागं यशसं कृधी नः॥


स्वर रहित पद पाठ

आ । नः । गहि । सख्येभिः । शिवेभिः । महान् । महीभिः । ऊतिऽभिः । सरण्यन् । अस्मे इति । रयिम् । बहुलम् । सम्ऽतरुत्रम् । सुऽवाचम् । भागम् । यशसम् । कृधि । नः ॥