rigveda/3/1/11

उ॒रौ म॒हाँ अ॑निबा॒धे व॑व॒र्धापो॑ अ॒ग्निं य॒शसः॒ सं हि पू॒र्वीः। ऋ॒तस्य॒ योना॑वशय॒द्दमू॑ना जामी॒नाम॒ग्निर॒पसि॒ स्वसॄ॑णाम्॥

उ॒रौ । म॒हान् । अ॒नि॒ऽबा॒धे । व॒व॒र्ध॒ । आपः॑ । अ॒ग्निम् । य॒शसः॑ । सम् । हि । पू॒र्वीः । ऋ॒तस्य॑ । योनौ॑ । अ॒श॒य॒त् । दमू॑नाः । जा॒मी॒नाम् । अ॒ग्निः । अ॒पसि॑ । स्वसृ॑ॠणाम् ॥

ऋषिः - गाथिनो विश्वामित्रः

देवता - अग्निः

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

उ॒रौ म॒हाँ अ॑निबा॒धे व॑व॒र्धापो॑ अ॒ग्निं य॒शसः॒ सं हि पू॒र्वीः। ऋ॒तस्य॒ योना॑वशय॒द्दमू॑ना जामी॒नाम॒ग्निर॒पसि॒ स्वसॄ॑णाम्॥

स्वर सहित पद पाठ

उ॒रौ । म॒हान् । अ॒नि॒ऽबा॒धे । व॒व॒र्ध॒ । आपः॑ । अ॒ग्निम् । य॒शसः॑ । सम् । हि । पू॒र्वीः । ऋ॒तस्य॑ । योनौ॑ । अ॒श॒य॒त् । दमू॑नाः । जा॒मी॒नाम् । अ॒ग्निः । अ॒पसि॑ । स्वसृ॑ॠणाम् ॥


स्वर रहित मन्त्र

उरौ महाँ अनिबाधे ववर्धापो अग्निं यशसः सं हि पूर्वीः। ऋतस्य योनावशयद्दमूना जामीनामग्निरपसि स्वसॄणाम्॥


स्वर रहित पद पाठ

उरौ । महान् । अनिऽबाधे । ववर्ध । आपः । अग्निम् । यशसः । सम् । हि । पूर्वीः । ऋतस्य । योनौ । अशयत् । दमूनाः । जामीनाम् । अग्निः । अपसि । स्वसृॠणाम् ॥