rigveda/2/8/6

अ॒ग्नेरिन्द्र॑स्य॒ सोम॑स्य दे॒वाना॑मू॒तिभि॑र्व॒यम्। अरि॑ष्यन्तः सचेमह्य॒भि ष्या॑म पृतन्य॒तः॥

अ॒ग्नेः । इन्द्र॑स्य । सोम॑स्य । दे॒वाना॑म् । ऊ॒तिऽभिः॑ । व॒यम् । अरि॑ष्यन्तः । स॒चे॒म॒हि॒ । अ॒भि । स्या॒म॒ । पृ॒त॒न्य॒तः ॥

ऋषिः - गृत्समदः शौनकः

देवता - अग्निः

छन्दः - निचृदनुष्टुप्

स्वरः - गान्धारः

स्वर सहित मन्त्र

अ॒ग्नेरिन्द्र॑स्य॒ सोम॑स्य दे॒वाना॑मू॒तिभि॑र्व॒यम्। अरि॑ष्यन्तः सचेमह्य॒भि ष्या॑म पृतन्य॒तः॥

स्वर सहित पद पाठ

अ॒ग्नेः । इन्द्र॑स्य । सोम॑स्य । दे॒वाना॑म् । ऊ॒तिऽभिः॑ । व॒यम् । अरि॑ष्यन्तः । स॒चे॒म॒हि॒ । अ॒भि । स्या॒म॒ । पृ॒त॒न्य॒तः ॥


स्वर रहित मन्त्र

अग्नेरिन्द्रस्य सोमस्य देवानामूतिभिर्वयम्। अरिष्यन्तः सचेमह्यभि ष्याम पृतन्यतः॥


स्वर रहित पद पाठ

अग्नेः । इन्द्रस्य । सोमस्य । देवानाम् । ऊतिऽभिः । वयम् । अरिष्यन्तः । सचेमहि । अभि । स्याम । पृतन्यतः ॥