rigveda/2/5/6
ऋषिः - सोमाहुतिर्भार्गवः
देवता - अग्निः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - गान्धारः
यदि॑ । मा॒तुः । उप॑ । स्वसा॑ । घृ॒तम् । भर॑न्ती । अस्थि॑त । तासा॑म् । अ॒ध्व॒र्युः । आऽग॑तौ । यवः॑ । वृ॒ष्टीऽइ॑व । मो॒द॒ते॒ ॥
यदि । मातुः । उप । स्वसा । घृतम् । भरन्ती । अस्थित । तासाम् । अध्वर्युः । आऽगतौ । यवः । वृष्टीऽइव । मोदते ॥