rigveda/2/41/4

अ॒यं वां॑ मित्रावरुणा सु॒तः सोम॑ ऋतावृधा। ममेदि॒ह श्रु॑तं॒ हव॑म्॥

अ॒यम् । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । सु॒तः । सोमः॑ । ऋ॒त॒ऽवृ॒धा॒ । मम॑ । इत् । इ॒ह । श्र॒त॒म् । हव॑म् ॥

ऋषिः - गृत्समदः शौनकः

देवता - मित्रावरुणौ

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

अ॒यं वां॑ मित्रावरुणा सु॒तः सोम॑ ऋतावृधा। ममेदि॒ह श्रु॑तं॒ हव॑म्॥

स्वर सहित पद पाठ

अ॒यम् । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । सु॒तः । सोमः॑ । ऋ॒त॒ऽवृ॒धा॒ । मम॑ । इत् । इ॒ह । श्र॒त॒म् । हव॑म् ॥


स्वर रहित मन्त्र

अयं वां मित्रावरुणा सुतः सोम ऋतावृधा। ममेदिह श्रुतं हवम्॥


स्वर रहित पद पाठ

अयम् । वाम् । मित्रावरुणा । सुतः । सोमः । ऋतऽवृधा । मम । इत् । इह । श्रतम् । हवम् ॥