rigveda/2/41/19

प्रेतां॑ य॒ज्ञस्य॑ शं॒भुवा॑ यु॒वामिदा वृ॑णीमहे। अ॒ग्निं च॑ हव्य॒वाह॑नम्॥

प्र । इ॒ता॒म् । य॒ज्ञस्य॑ । श॒म्ऽभुवा॑ । यु॒वाम् । इत् । आ । वृ॒णी॒म॒हे॒ । अ॒ग्निम् । च॒ । ह॒व्य॒ऽवाह॑नम् ॥

ऋषिः - गृत्समदः शौनकः

देवता - द्यावापृथिव्यौ हविर्धाने वा

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

प्रेतां॑ य॒ज्ञस्य॑ शं॒भुवा॑ यु॒वामिदा वृ॑णीमहे। अ॒ग्निं च॑ हव्य॒वाह॑नम्॥

स्वर सहित पद पाठ

प्र । इ॒ता॒म् । य॒ज्ञस्य॑ । श॒म्ऽभुवा॑ । यु॒वाम् । इत् । आ । वृ॒णी॒म॒हे॒ । अ॒ग्निम् । च॒ । ह॒व्य॒ऽवाह॑नम् ॥


स्वर रहित मन्त्र

प्रेतां यज्ञस्य शंभुवा युवामिदा वृणीमहे। अग्निं च हव्यवाहनम्॥


स्वर रहित पद पाठ

प्र । इताम् । यज्ञस्य । शम्ऽभुवा । युवाम् । इत् । आ । वृणीमहे । अग्निम् । च । हव्यऽवाहनम् ॥