rigveda/2/41/1

वायो॒ ये ते॑ सह॒स्रिणो॒ रथा॑स॒स्तेभि॒रा ग॑हि। नि॒युत्वा॒न्त्सोम॑पीतये॥

वायो॒ इति॑ । ये । ते॒ । स॒ह॒स्रिणः॑ । रथा॑सः । तेभिः॑ । आ । ग॒हि॒ । नि॒युत्वा॑न् । सोम॑ऽपीतये ॥

ऋषिः - गृत्समदः शौनकः

देवता - वायु:

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

वायो॒ ये ते॑ सह॒स्रिणो॒ रथा॑स॒स्तेभि॒रा ग॑हि। नि॒युत्वा॒न्त्सोम॑पीतये॥

स्वर सहित पद पाठ

वायो॒ इति॑ । ये । ते॒ । स॒ह॒स्रिणः॑ । रथा॑सः । तेभिः॑ । आ । ग॒हि॒ । नि॒युत्वा॑न् । सोम॑ऽपीतये ॥


स्वर रहित मन्त्र

वायो ये ते सहस्रिणो रथासस्तेभिरा गहि। नियुत्वान्त्सोमपीतये॥


स्वर रहित पद पाठ

वायो इति । ये । ते । सहस्रिणः । रथासः । तेभिः । आ । गहि । नियुत्वान् । सोमऽपीतये ॥