rigveda/2/40/3

सोमा॑पूषणा॒ रज॑सो वि॒मानं॑ स॒प्तच॑क्रं॒ रथ॒मवि॑श्वमिन्वम्। वि॒षू॒वृतं॒ मन॑सा यु॒ज्यमा॑नं॒ तं जि॑न्वथो वृषणा॒ पञ्च॑रश्मिम्॥

सोमा॑पूषणा । रज॑सः । वि॒ऽमान॑म् । स॒प्तऽच॑क्रम् । रथ॑म् । अवि॑श्वऽमिन्वम् । वि॒षु॒ऽवृत॑म् । मन॑सा । यु॒ज्यमा॑नम् । तम् । जि॒न्व॒थः॒ । वृ॒ष॒णा॒ । पञ्च॑ऽरश्मिम् ॥

ऋषिः - गृत्समदः शौनकः

देवता - सोमापूषणावदितिश्च

छन्दः - त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

सोमा॑पूषणा॒ रज॑सो वि॒मानं॑ स॒प्तच॑क्रं॒ रथ॒मवि॑श्वमिन्वम्। वि॒षू॒वृतं॒ मन॑सा यु॒ज्यमा॑नं॒ तं जि॑न्वथो वृषणा॒ पञ्च॑रश्मिम्॥

स्वर सहित पद पाठ

सोमा॑पूषणा । रज॑सः । वि॒ऽमान॑म् । स॒प्तऽच॑क्रम् । रथ॑म् । अवि॑श्वऽमिन्वम् । वि॒षु॒ऽवृत॑म् । मन॑सा । यु॒ज्यमा॑नम् । तम् । जि॒न्व॒थः॒ । वृ॒ष॒णा॒ । पञ्च॑ऽरश्मिम् ॥


स्वर रहित मन्त्र

सोमापूषणा रजसो विमानं सप्तचक्रं रथमविश्वमिन्वम्। विषूवृतं मनसा युज्यमानं तं जिन्वथो वृषणा पञ्चरश्मिम्॥


स्वर रहित पद पाठ

सोमापूषणा । रजसः । विऽमानम् । सप्तऽचक्रम् । रथम् । अविश्वऽमिन्वम् । विषुऽवृतम् । मनसा । युज्यमानम् । तम् । जिन्वथः । वृषणा । पञ्चऽरश्मिम् ॥