rigveda/2/37/3
ऋषिः - गृत्समदः शौनकः
देवता - द्रविणोदाः
छन्दः - विराड्जगती
स्वरः - निषादः
मेद्य॑न्तु । ते॒ । वह्न॑यः । येभिः॑ । ईय॑से । अरि॑षण्यन् । वी॒ळ॒य॒स्व॒ । व॒न॒स्प॒ते॒ । आ॒ऽयूय॑ । धृ॒ष्णो॒ इति॑ । अ॒भि॒ऽगूर्य॑ । त्वम् । ने॒ष्ट्रात् । सोम॑म् । द्र॒वि॒णः॒ऽदः॒ । पिब॑ । ऋ॒तुऽभिः॑ ॥
मेद्यन्तु । ते । वह्नयः । येभिः । ईयसे । अरिषण्यन् । वीळयस्व । वनस्पते । आऽयूय । धृष्णो इति । अभिऽगूर्य । त्वम् । नेष्ट्रात् । सोमम् । द्रविणःऽदः । पिब । ऋतुऽभिः ॥