rigveda/2/36/1
ऋषिः - गृत्समदः शौनकः
देवता - इन्द्रो मधुश्च
छन्दः - स्वराट्त्रिष्टुप्
स्वरः - धैवतः
तुभ्य॑म् । हि॒न्वा॒नः । व॒सि॒ष्ट॒ । गाः । अ॒पः । अधु॑क्षन् । सी॒म् । अवि॑ऽभिः । अद्रि॑ऽभिः । नरः॑ । पिब॑ । इ॒न्द्र॒ । स्वाहा॑ । प्रऽहु॑तम् । वष॑ट्ऽकृतम् । हो॒त्रात् । आ । सोम॑म् । प्र॒थ॒मः । यः । ईशि॑षे ॥
तुभ्यम् । हिन्वानः । वसिष्ट । गाः । अपः । अधुक्षन् । सीम् । अविऽभिः । अद्रिऽभिः । नरः । पिब । इन्द्र । स्वाहा । प्रऽहुतम् । वषट्ऽकृतम् । होत्रात् । आ । सोमम् । प्रथमः । यः । ईशिषे ॥