rigveda/2/34/13

ते क्षो॒णीभि॑ररु॒णेभि॒र्नाञ्जिभी॑ रु॒द्रा ऋ॒तस्य॒ सद॑नेषु वावृधुः। नि॒मेघ॑माना॒ अत्ये॑न॒ पाज॑सा सुश्च॒न्द्रं वर्णं॑ दधिरे सु॒पेश॑सम्॥

ते । क्षो॒णीभिः॑ । अरु॒णेभिः॑ । न । अ॒ञ्जिऽभिः॑ । रु॒द्राः । ऋ॒तस्य॑ । सद॑नेषु । व॒वृ॒धुः॒ । नि॒ऽमेघ॑मानाः । अत्ये॑न । पाज॑सा । सुऽच॒न्द्रम् । वर्ण॑म् । द॒धि॒रे॒ । सु॒ऽपेश॑सम् ॥

ऋषिः - गृत्समदः शौनकः

देवता - मरुतः

छन्दः - विराड्जगती

स्वरः - निषादः

स्वर सहित मन्त्र

ते क्षो॒णीभि॑ररु॒णेभि॒र्नाञ्जिभी॑ रु॒द्रा ऋ॒तस्य॒ सद॑नेषु वावृधुः। नि॒मेघ॑माना॒ अत्ये॑न॒ पाज॑सा सुश्च॒न्द्रं वर्णं॑ दधिरे सु॒पेश॑सम्॥

स्वर सहित पद पाठ

ते । क्षो॒णीभिः॑ । अरु॒णेभिः॑ । न । अ॒ञ्जिऽभिः॑ । रु॒द्राः । ऋ॒तस्य॑ । सद॑नेषु । व॒वृ॒धुः॒ । नि॒ऽमेघ॑मानाः । अत्ये॑न । पाज॑सा । सुऽच॒न्द्रम् । वर्ण॑म् । द॒धि॒रे॒ । सु॒ऽपेश॑सम् ॥


स्वर रहित मन्त्र

ते क्षोणीभिररुणेभिर्नाञ्जिभी रुद्रा ऋतस्य सदनेषु वावृधुः। निमेघमाना अत्येन पाजसा सुश्चन्द्रं वर्णं दधिरे सुपेशसम्॥


स्वर रहित पद पाठ

ते । क्षोणीभिः । अरुणेभिः । न । अञ्जिऽभिः । रुद्राः । ऋतस्य । सदनेषु । ववृधुः । निऽमेघमानाः । अत्येन । पाजसा । सुऽचन्द्रम् । वर्णम् । दधिरे । सुऽपेशसम् ॥