rigveda/2/33/11

स्तु॒हि श्रु॒तं ग॑र्त॒सदं॒ युवा॑नं मृ॒गं न भी॒ममु॑पह॒त्नुमु॒ग्रम्। मृ॒ळा ज॑रि॒त्रे रु॑द्र॒ स्तवा॑नो॒ऽन्यं ते॑ अ॒स्मन्नि व॑पन्तु॒ सेनाः॑॥

स्तु॒हि । श्रु॒तम् । ग॒र्त॒ऽसद॑म् । युवा॑नम् । मृ॒गम् । न । भी॒मम् । उ॒प॒ऽह॒त्नुम् । उ॒ग्रम् । मृ॒ळ । ज॒रि॒त्रे । रु॒द्र॒ । स्तवा॑नः । अ॒न्यम् । ते॒ । अ॒स्मत् । नि । व॒प॒न्तु॒ । सेनाः॑ ॥

ऋषिः - गृत्समदः शौनकः

देवता - रुद्रः

छन्दः - विराट्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

स्तु॒हि श्रु॒तं ग॑र्त॒सदं॒ युवा॑नं मृ॒गं न भी॒ममु॑पह॒त्नुमु॒ग्रम्। मृ॒ळा ज॑रि॒त्रे रु॑द्र॒ स्तवा॑नो॒ऽन्यं ते॑ अ॒स्मन्नि व॑पन्तु॒ सेनाः॑॥

स्वर सहित पद पाठ

स्तु॒हि । श्रु॒तम् । ग॒र्त॒ऽसद॑म् । युवा॑नम् । मृ॒गम् । न । भी॒मम् । उ॒प॒ऽह॒त्नुम् । उ॒ग्रम् । मृ॒ळ । ज॒रि॒त्रे । रु॒द्र॒ । स्तवा॑नः । अ॒न्यम् । ते॒ । अ॒स्मत् । नि । व॒प॒न्तु॒ । सेनाः॑ ॥


स्वर रहित मन्त्र

स्तुहि श्रुतं गर्तसदं युवानं मृगं न भीममुपहत्नुमुग्रम्। मृळा जरित्रे रुद्र स्तवानोऽन्यं ते अस्मन्नि वपन्तु सेनाः॥


स्वर रहित पद पाठ

स्तुहि । श्रुतम् । गर्तऽसदम् । युवानम् । मृगम् । न । भीमम् । उपऽहत्नुम् । उग्रम् । मृळ । जरित्रे । रुद्र । स्तवानः । अन्यम् । ते । अस्मत् । नि । वपन्तु । सेनाः ॥