rigveda/2/32/3

अहे॑ळता॒ मन॑सा श्रु॒ष्टिमा व॑ह॒ दुहा॑नां धे॒नुं पि॒प्युषी॑मस॒श्चत॑म्। पद्या॑भिरा॒शुं वच॑सा च वा॒जिनं॒ त्वां हि॑नोमि पुरुहूत वि॒श्वहा॑॥

अहे॑ळता । मन॑सा । श्रु॒ष्टिम् । आ । व॒ह॒ । दुहा॑नाम् । धे॒नुम् । पि॒प्युषी॑म् । अ॒स॒श्चत॑म् । पद्या॑भिः । आ॒शुम् । वच॑सा । च॒ । वा॒जिन॑म् । त्वाम् । हि॒नो॒मि॒ । पु॒रु॒ऽहू॒त॒ । वि॒श्वहा॑ ॥

ऋषिः - गृत्समदः शौनकः

देवता - इन्द्रस्त्वष्टा वा

छन्दः - निचृज्जगती

स्वरः - निषादः

स्वर सहित मन्त्र

अहे॑ळता॒ मन॑सा श्रु॒ष्टिमा व॑ह॒ दुहा॑नां धे॒नुं पि॒प्युषी॑मस॒श्चत॑म्। पद्या॑भिरा॒शुं वच॑सा च वा॒जिनं॒ त्वां हि॑नोमि पुरुहूत वि॒श्वहा॑॥

स्वर सहित पद पाठ

अहे॑ळता । मन॑सा । श्रु॒ष्टिम् । आ । व॒ह॒ । दुहा॑नाम् । धे॒नुम् । पि॒प्युषी॑म् । अ॒स॒श्चत॑म् । पद्या॑भिः । आ॒शुम् । वच॑सा । च॒ । वा॒जिन॑म् । त्वाम् । हि॒नो॒मि॒ । पु॒रु॒ऽहू॒त॒ । वि॒श्वहा॑ ॥


स्वर रहित मन्त्र

अहेळता मनसा श्रुष्टिमा वह दुहानां धेनुं पिप्युषीमसश्चतम्। पद्याभिराशुं वचसा च वाजिनं त्वां हिनोमि पुरुहूत विश्वहा॥


स्वर रहित पद पाठ

अहेळता । मनसा । श्रुष्टिम् । आ । वह । दुहानाम् । धेनुम् । पिप्युषीम् । असश्चतम् । पद्याभिः । आशुम् । वचसा । च । वाजिनम् । त्वाम् । हिनोमि । पुरुऽहूत । विश्वहा ॥