rigveda/2/31/5

उ॒त त्ये दे॒वी सु॒भगे॑ मिथू॒दृशो॒षासा॒नक्ता॒ जग॑तामपी॒जुवा॑। स्तु॒षे यद्वां॑ पृथिवि॒ नव्य॑सा॒ वचः॑ स्था॒तुश्च॒ वय॒स्त्रिव॑या उप॒स्तिरे॑॥

उ॒त । त्ये । दे॒वी इति॑ । सु॒भगे॒ इति॑ सु॒ऽभगे॑ । मिथु॒ऽदृशा॑ । उ॒षसा॒नक्ता॑ । जग॑ताम् । अ॒पि॒ऽजुवा॑ । स्तु॒षे । यत् । वा॒म् । पृ॒थि॒वि॒ । नव्य॑सा । वचः॑ । स्था॒तुः । च॒ । वयः॑ । त्रिऽव॑याः । उ॒प॒ऽस्तिरे॑ ॥

ऋषिः - गृत्समदः शौनकः

देवता - विश्वेदेवा:

छन्दः - निचृज्जगती

स्वरः - निषादः

स्वर सहित मन्त्र

उ॒त त्ये दे॒वी सु॒भगे॑ मिथू॒दृशो॒षासा॒नक्ता॒ जग॑तामपी॒जुवा॑। स्तु॒षे यद्वां॑ पृथिवि॒ नव्य॑सा॒ वचः॑ स्था॒तुश्च॒ वय॒स्त्रिव॑या उप॒स्तिरे॑॥

स्वर सहित पद पाठ

उ॒त । त्ये । दे॒वी इति॑ । सु॒भगे॒ इति॑ सु॒ऽभगे॑ । मिथु॒ऽदृशा॑ । उ॒षसा॒नक्ता॑ । जग॑ताम् । अ॒पि॒ऽजुवा॑ । स्तु॒षे । यत् । वा॒म् । पृ॒थि॒वि॒ । नव्य॑सा । वचः॑ । स्था॒तुः । च॒ । वयः॑ । त्रिऽव॑याः । उ॒प॒ऽस्तिरे॑ ॥


स्वर रहित मन्त्र

उत त्ये देवी सुभगे मिथूदृशोषासानक्ता जगतामपीजुवा। स्तुषे यद्वां पृथिवि नव्यसा वचः स्थातुश्च वयस्त्रिवया उपस्तिरे॥


स्वर रहित पद पाठ

उत । त्ये । देवी इति । सुभगे इति सुऽभगे । मिथुऽदृशा । उषसानक्ता । जगताम् । अपिऽजुवा । स्तुषे । यत् । वाम् । पृथिवि । नव्यसा । वचः । स्थातुः । च । वयः । त्रिऽवयाः । उपऽस्तिरे ॥