rigveda/2/31/3
ऋषिः - गृत्समदः शौनकः
देवता - विश्वेदेवा:
छन्दः - विराट्जगती
स्वरः - निषादः
उ॒त । स्यः । नः॒ । इन्द्रः॑ । वि॒श्वऽच॑र्षणिः । दि॒वः । शर्धे॑न । मारु॑तेन । सु॒ऽक्रतुः॑ । अनु॑ । नु । स्था॒ति॒ । अ॒वृ॒काभिः॑ । ऊ॒तिऽभिः॑ । रथ॑म् । म॒हे । स॒नये॑ । वाज॑ऽसातये ॥
उत । स्यः । नः । इन्द्रः । विश्वऽचर्षणिः । दिवः । शर्धेन । मारुतेन । सुऽक्रतुः । अनु । नु । स्थाति । अवृकाभिः । ऊतिऽभिः । रथम् । महे । सनये । वाजऽसातये ॥