rigveda/2/30/9
ऋषिः - गृत्समदः शौनकः
देवता - बृहस्पतिः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
यः । नः॒ । सनु॑त्य । उ॒त । वा॒ । जि॒घ॒त्नुः । अ॒भि॒ऽख्याय॑ । तम् । ति॒गि॒तेन॑ । वि॒ध्य॒ । बृह॑स्पते । आयु॑धैः । जे॒षि॒ । शत्रू॑न् । दु॒हे । रिष॑न्तम् । परि॑ । धे॒हि॒ । रा॒ज॒न् ॥
यः । नः । सनुत्य । उत । वा । जिघत्नुः । अभिऽख्याय । तम् । तिगितेन । विध्य । बृहस्पते । आयुधैः । जेषि । शत्रून् । दुहे । रिषन्तम् । परि । धेहि । राजन् ॥