rigveda/2/3/4

देव॑ बर्हि॒र्वर्ध॑मानं सु॒वीरं॑ स्ती॒र्णं रा॒ये सु॒भरं॒ वेद्य॒स्याम्। घृ॒तेना॒क्तं व॑सवः सीदते॒दं विश्वे॑ देवा आदित्या य॒ज्ञिया॑सः॥

देव॑ । ब॒र्हिः॒ । वर्ध॑मानम् । सु॒ऽवीर॑म् । स्ती॒र्णम् । रा॒ये । सु॒ऽभर॑म् । वेदी॒ इति॑ । अ॒स्याम् । घृ॒तेन॑ । अ॒क्तम् । व॒स॒वः॒ । सी॒द॒त॒ । इ॒दम् । विश्वे॑ । दे॒वाः॒ । आ॒दि॒त्याः॒ । य॒ज्ञिया॑सः ॥

ऋषिः - गृत्समदः शौनकः

देवता - अग्निः

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

देव॑ बर्हि॒र्वर्ध॑मानं सु॒वीरं॑ स्ती॒र्णं रा॒ये सु॒भरं॒ वेद्य॒स्याम्। घृ॒तेना॒क्तं व॑सवः सीदते॒दं विश्वे॑ देवा आदित्या य॒ज्ञिया॑सः॥

स्वर सहित पद पाठ

देव॑ । ब॒र्हिः॒ । वर्ध॑मानम् । सु॒ऽवीर॑म् । स्ती॒र्णम् । रा॒ये । सु॒ऽभर॑म् । वेदी॒ इति॑ । अ॒स्याम् । घृ॒तेन॑ । अ॒क्तम् । व॒स॒वः॒ । सी॒द॒त॒ । इ॒दम् । विश्वे॑ । दे॒वाः॒ । आ॒दि॒त्याः॒ । य॒ज्ञिया॑सः ॥


स्वर रहित मन्त्र

देव बर्हिर्वर्धमानं सुवीरं स्तीर्णं राये सुभरं वेद्यस्याम्। घृतेनाक्तं वसवः सीदतेदं विश्वे देवा आदित्या यज्ञियासः॥


स्वर रहित पद पाठ

देव । बर्हिः । वर्धमानम् । सुऽवीरम् । स्तीर्णम् । राये । सुऽभरम् । वेदी इति । अस्याम् । घृतेन । अक्तम् । वसवः । सीदत । इदम् । विश्वे । देवाः । आदित्याः । यज्ञियासः ॥