rigveda/2/29/3

किमू॒ नु वः॑ कृणवा॒माप॑रेण॒ किं सने॑न वसव॒ आप्ये॑न। यू॒यं नो॑ मित्रावरुणादिते च स्व॒स्तिमि॑न्द्रामरुतो दधात॥

किम् । ऊँ॒ इति॑ । नु । वः॒ । कृ॒ण॒वा॒म॒ । अप॑रेण । किम् । सने॑न । व॒स॒वः॒ । आप्ये॑न । यू॒यम् । नः॒ । मि॒त्रा॒व॒रु॒णा॒ । अ॒दि॒ते॒ । च॒ । स्व॒स्तिम् । इ॒न्द्रा॒म॒रु॒तः॒ । द॒धा॒त॒ ॥

ऋषिः - कूर्मो गार्त्समदो गृत्समदो वा

देवता - विश्वेदेवा:

छन्दः - विराट्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

किमू॒ नु वः॑ कृणवा॒माप॑रेण॒ किं सने॑न वसव॒ आप्ये॑न। यू॒यं नो॑ मित्रावरुणादिते च स्व॒स्तिमि॑न्द्रामरुतो दधात॥

स्वर सहित पद पाठ

किम् । ऊँ॒ इति॑ । नु । वः॒ । कृ॒ण॒वा॒म॒ । अप॑रेण । किम् । सने॑न । व॒स॒वः॒ । आप्ये॑न । यू॒यम् । नः॒ । मि॒त्रा॒व॒रु॒णा॒ । अ॒दि॒ते॒ । च॒ । स्व॒स्तिम् । इ॒न्द्रा॒म॒रु॒तः॒ । द॒धा॒त॒ ॥


स्वर रहित मन्त्र

किमू नु वः कृणवामापरेण किं सनेन वसव आप्येन। यूयं नो मित्रावरुणादिते च स्वस्तिमिन्द्रामरुतो दधात॥


स्वर रहित पद पाठ

किम् । ऊँ इति । नु । वः । कृणवाम । अपरेण । किम् । सनेन । वसवः । आप्येन । यूयम् । नः । मित्रावरुणा । अदिते । च । स्वस्तिम् । इन्द्रामरुतः । दधात ॥