rigveda/2/28/10

यो मे॑ राज॒न्युज्यो॑ वा॒ सखा॑ वा॒ स्वप्ने॑ भ॒यं भी॒रवे॒ मह्य॒माह॑। स्ते॒नो वा॒ यो दिप्स॑ति नो॒ वृको॑ वा॒ त्वं तस्मा॑द्वरुण पाह्य॒स्मान्॥

यः । मे॒ । रा॒ज॒न् । युज्यः॑ । वा॒ । सखा॑ । वा॒ । स्वप्ने॑ । भ॒यम् । भी॒रवे॑ । मह्य॑म् । आह॑ । स्ते॒नः । वा॒ । यः । दिप्स॑ति । नः॒ । वृकः॑ । वा॒ । त्वम् । तस्मा॑त् । व॒रु॒ण॒ । पा॒हि॒ । अ॒स्मान् ॥

ऋषिः - कूर्मो गार्त्समदो गृत्समदो वा

देवता - वरुणः

छन्दः - भुरिक्पङ्क्ति

स्वरः - पञ्चमः

स्वर सहित मन्त्र

यो मे॑ राज॒न्युज्यो॑ वा॒ सखा॑ वा॒ स्वप्ने॑ भ॒यं भी॒रवे॒ मह्य॒माह॑। स्ते॒नो वा॒ यो दिप्स॑ति नो॒ वृको॑ वा॒ त्वं तस्मा॑द्वरुण पाह्य॒स्मान्॥

स्वर सहित पद पाठ

यः । मे॒ । रा॒ज॒न् । युज्यः॑ । वा॒ । सखा॑ । वा॒ । स्वप्ने॑ । भ॒यम् । भी॒रवे॑ । मह्य॑म् । आह॑ । स्ते॒नः । वा॒ । यः । दिप्स॑ति । नः॒ । वृकः॑ । वा॒ । त्वम् । तस्मा॑त् । व॒रु॒ण॒ । पा॒हि॒ । अ॒स्मान् ॥


स्वर रहित मन्त्र

यो मे राजन्युज्यो वा सखा वा स्वप्ने भयं भीरवे मह्यमाह। स्तेनो वा यो दिप्सति नो वृको वा त्वं तस्माद्वरुण पाह्यस्मान्॥


स्वर रहित पद पाठ

यः । मे । राजन् । युज्यः । वा । सखा । वा । स्वप्ने । भयम् । भीरवे । मह्यम् । आह । स्तेनः । वा । यः । दिप्सति । नः । वृकः । वा । त्वम् । तस्मात् । वरुण । पाहि । अस्मान् ॥