rigveda/2/27/3

त आ॑दि॒त्यास॑ उ॒रवो॑ गभी॒रा अद॑ब्धासो॒ दिप्स॑न्तो भूर्य॒क्षाः। अ॒न्तः प॑श्यन्ति वृजि॒नोत सा॒धु सर्वं॒ राज॑भ्यः पर॒मा चि॒दन्ति॑॥

ते । आ॒दि॒त्यासः॑ । उ॒रवः॑ । ग॒भी॒राः । अद॑ब्धासः । दिप्स॑न्तः । भू॒रि॒ऽअ॒क्षाः । अ॒न्तरिति॑ । प॒श्य॒न्ति॒ । वृ॒जि॒ना । उ॒त । सा॒धु । सर्व॑म् । राज॑ऽभ्यः । प॒र॒मा । चि॒त् । अन्ति॑ ॥

ऋषिः - कूर्मो गार्त्समदो गृत्समदो वा

देवता - आदित्याः

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

त आ॑दि॒त्यास॑ उ॒रवो॑ गभी॒रा अद॑ब्धासो॒ दिप्स॑न्तो भूर्य॒क्षाः। अ॒न्तः प॑श्यन्ति वृजि॒नोत सा॒धु सर्वं॒ राज॑भ्यः पर॒मा चि॒दन्ति॑॥

स्वर सहित पद पाठ

ते । आ॒दि॒त्यासः॑ । उ॒रवः॑ । ग॒भी॒राः । अद॑ब्धासः । दिप्स॑न्तः । भू॒रि॒ऽअ॒क्षाः । अ॒न्तरिति॑ । प॒श्य॒न्ति॒ । वृ॒जि॒ना । उ॒त । सा॒धु । सर्व॑म् । राज॑ऽभ्यः । प॒र॒मा । चि॒त् । अन्ति॑ ॥


स्वर रहित मन्त्र

त आदित्यास उरवो गभीरा अदब्धासो दिप्सन्तो भूर्यक्षाः। अन्तः पश्यन्ति वृजिनोत साधु सर्वं राजभ्यः परमा चिदन्ति॥


स्वर रहित पद पाठ

ते । आदित्यासः । उरवः । गभीराः । अदब्धासः । दिप्सन्तः । भूरिऽअक्षाः । अन्तरिति । पश्यन्ति । वृजिना । उत । साधु । सर्वम् । राजऽभ्यः । परमा । चित् । अन्ति ॥