rigveda/2/27/12
ऋषिः - कूर्मो गार्त्समदो गृत्समदो वा
देवता - आदित्याः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
यः । राज॑ऽभ्यः । ऋ॒त॒निऽभ्यः॑ । द॒दाश॑ । यम् । व॒र्धय॑न्ति । पु॒ष्टयः॑ । च॒ । नित्याः॑ । सः । रे॒वान् । या॒ति॒ । प्र॒थ॒मः । रथे॑न । व॒सु॒ऽदावा॑ । वि॒दथे॑षु । प्र॒ऽश॒स्तः ॥
यः । राजऽभ्यः । ऋतनिऽभ्यः । ददाश । यम् । वर्धयन्ति । पुष्टयः । च । नित्याः । सः । रेवान् । याति । प्रथमः । रथेन । वसुऽदावा । विदथेषु । प्रऽशस्तः ॥