rigveda/2/24/4
ऋषिः - गृत्समदः शौनकः
देवता - ब्रह्मणस्पतिः
छन्दः - स्वराट्त्रिष्टुप्
स्वरः - धैवतः
अश्म॑ऽआस्यम् । अ॒व॒तम् । ब्रह्म॑णः । पतिः॑ । मधु॑ऽधारम् । अ॒भि । यम् । ओज॑सा । अतृ॑णत् । तम् । ए॒व । विश्वे॑ । प॒पि॒रे॒ । स्वः॒ऽदृशः॑ । ब॒हु । सा॒कम् । सि॒सि॒चुः॒ । उत्स॑म् । उ॒द्रिण॑म् ॥
अश्मऽआस्यम् । अवतम् । ब्रह्मणः । पतिः । मधुऽधारम् । अभि । यम् । ओजसा । अतृणत् । तम् । एव । विश्वे । पपिरे । स्वःऽदृशः । बहु । साकम् । सिसिचुः । उत्सम् । उद्रिणम् ॥