rigveda/2/24/14

ब्रह्म॑ण॒स्पते॑रभवद्यथाव॒शं स॒त्यो म॒न्युर्महि॒ कर्मा॑ करिष्य॒तः। यो गा उ॒दाज॒त्स दि॒वे वि चा॑भजन्म॒हीव॑ री॒तिः शव॑सासर॒त्पृथ॑क्॥

ब्रह्म॑णः । पतेः॑ । अ॒भ॒व॒त् । य॒था॒ऽव॒शम् । स॒त्यः । म॒न्युः । महि॑ । कर्म॑ । क॒रि॒ष्य॒तः । यः । गाः । उ॒त्ऽआज॑त् । सः । दि॒वे । वि । च॒ । अ॒भ॒ज॒त् । म॒हीऽइ॑व । री॒तिः । शव॑सा । अ॒स॒र॒त् । पृथ॑क् ॥

ऋषिः - गृत्समदः शौनकः

देवता - ब्रह्मणस्पतिः

छन्दः - जगती

स्वरः - निषादः

स्वर सहित मन्त्र

ब्रह्म॑ण॒स्पते॑रभवद्यथाव॒शं स॒त्यो म॒न्युर्महि॒ कर्मा॑ करिष्य॒तः। यो गा उ॒दाज॒त्स दि॒वे वि चा॑भजन्म॒हीव॑ री॒तिः शव॑सासर॒त्पृथ॑क्॥

स्वर सहित पद पाठ

ब्रह्म॑णः । पतेः॑ । अ॒भ॒व॒त् । य॒था॒ऽव॒शम् । स॒त्यः । म॒न्युः । महि॑ । कर्म॑ । क॒रि॒ष्य॒तः । यः । गाः । उ॒त्ऽआज॑त् । सः । दि॒वे । वि । च॒ । अ॒भ॒ज॒त् । म॒हीऽइ॑व । री॒तिः । शव॑सा । अ॒स॒र॒त् । पृथ॑क् ॥


स्वर रहित मन्त्र

ब्रह्मणस्पतेरभवद्यथावशं सत्यो मन्युर्महि कर्मा करिष्यतः। यो गा उदाजत्स दिवे वि चाभजन्महीव रीतिः शवसासरत्पृथक्॥


स्वर रहित पद पाठ

ब्रह्मणः । पतेः । अभवत् । यथाऽवशम् । सत्यः । मन्युः । महि । कर्म । करिष्यतः । यः । गाः । उत्ऽआजत् । सः । दिवे । वि । च । अभजत् । महीऽइव । रीतिः । शवसा । असरत् । पृथक् ॥