rigveda/2/17/4

अधा॒ यो विश्वा॒ भुव॑ना॒भि म॒ज्मने॑शान॒कृत्प्रव॑या अ॒भ्यव॑र्धत। आद्रोद॑सी॒ ज्योति॑षा॒ वह्नि॒रात॑नो॒त्सीव्य॒न्तमां॑सि॒ दुधि॑ता॒ सम॑व्ययत्॥

अध॑ । यः । विश्वा॑ । भुव॑ना । अ॒भि । म॒ज्मना॑ । ई॒शा॒न॒ऽकृत् । प्रऽव॑याः । अ॒भि । अव॑र्धत । आत् । रोद॑सी॒ इति॑ । ज्योति॑षा । वह्निः॑ । आ । अ॒त॒नो॒त् । सीव्य॑न् । तमां॑सि । दुधि॑ता । सम् । अ॒व्य॒य॒त् ॥

ऋषिः - गृत्समदः शौनकः

देवता - इन्द्र:

छन्दः - निचृज्जगती

स्वरः - निषादः

स्वर सहित मन्त्र

अधा॒ यो विश्वा॒ भुव॑ना॒भि म॒ज्मने॑शान॒कृत्प्रव॑या अ॒भ्यव॑र्धत। आद्रोद॑सी॒ ज्योति॑षा॒ वह्नि॒रात॑नो॒त्सीव्य॒न्तमां॑सि॒ दुधि॑ता॒ सम॑व्ययत्॥

स्वर सहित पद पाठ

अध॑ । यः । विश्वा॑ । भुव॑ना । अ॒भि । म॒ज्मना॑ । ई॒शा॒न॒ऽकृत् । प्रऽव॑याः । अ॒भि । अव॑र्धत । आत् । रोद॑सी॒ इति॑ । ज्योति॑षा । वह्निः॑ । आ । अ॒त॒नो॒त् । सीव्य॑न् । तमां॑सि । दुधि॑ता । सम् । अ॒व्य॒य॒त् ॥


स्वर रहित मन्त्र

अधा यो विश्वा भुवनाभि मज्मनेशानकृत्प्रवया अभ्यवर्धत। आद्रोदसी ज्योतिषा वह्निरातनोत्सीव्यन्तमांसि दुधिता समव्ययत्॥


स्वर रहित पद पाठ

अध । यः । विश्वा । भुवना । अभि । मज्मना । ईशानऽकृत् । प्रऽवयाः । अभि । अवर्धत । आत् । रोदसी इति । ज्योतिषा । वह्निः । आ । अतनोत् । सीव्यन् । तमांसि । दुधिता । सम् । अव्ययत् ॥