rigveda/2/16/6

वृषा॑ ते॒ वज्र॑ उ॒त ते॒ वृषा॒ रथो॒ वृष॑णा॒ हरी॑ वृष॒भाण्यायु॑धा। वृष्णो॒ मद॑स्य वृषभ॒ त्वमी॑शिष॒ इन्द्र॒ सोम॑स्य वृष॒भस्य॑ तृप्णुहि॥

वृषा॑ । ते॒ । वज्रः॑ । उ॒त । ते॒ । वृषा॑ । रथः॑ । वृष॑णा । हरी॒ इति॑ । वृ॒ष॒भाणि॑ । आयु॑धा । वृष्णः॑ । मद॑स्य । वृ॒ष॒भ॒ । त्वम् । ई॒शि॒षे॒ । इन्द्र॑ । सोम॑स्य । वृ॒ष॒भस्य॑ । तृ॒प्णु॒हि॒ ॥

ऋषिः - गृत्समदः शौनकः

देवता - इन्द्र:

छन्दः - निचृज्जगती

स्वरः - निषादः

स्वर सहित मन्त्र

वृषा॑ ते॒ वज्र॑ उ॒त ते॒ वृषा॒ रथो॒ वृष॑णा॒ हरी॑ वृष॒भाण्यायु॑धा। वृष्णो॒ मद॑स्य वृषभ॒ त्वमी॑शिष॒ इन्द्र॒ सोम॑स्य वृष॒भस्य॑ तृप्णुहि॥

स्वर सहित पद पाठ

वृषा॑ । ते॒ । वज्रः॑ । उ॒त । ते॒ । वृषा॑ । रथः॑ । वृष॑णा । हरी॒ इति॑ । वृ॒ष॒भाणि॑ । आयु॑धा । वृष्णः॑ । मद॑स्य । वृ॒ष॒भ॒ । त्वम् । ई॒शि॒षे॒ । इन्द्र॑ । सोम॑स्य । वृ॒ष॒भस्य॑ । तृ॒प्णु॒हि॒ ॥


स्वर रहित मन्त्र

वृषा ते वज्र उत ते वृषा रथो वृषणा हरी वृषभाण्यायुधा। वृष्णो मदस्य वृषभ त्वमीशिष इन्द्र सोमस्य वृषभस्य तृप्णुहि॥


स्वर रहित पद पाठ

वृषा । ते । वज्रः । उत । ते । वृषा । रथः । वृषणा । हरी इति । वृषभाणि । आयुधा । वृष्णः । मदस्य । वृषभ । त्वम् । ईशिषे । इन्द्र । सोमस्य । वृषभस्य । तृप्णुहि ॥