rigveda/2/15/7
ऋषिः - गृत्समदः शौनकः
देवता - इन्द्र:
छन्दः - स्वराट्पङ्क्ति
स्वरः - पञ्चमः
सः । वि॒द्वान् । अ॒प॒ऽगो॒हम् । क॒नीना॑म् । आ॒विः । भव॑न् । उत् । अ॒ति॒ष्ठ॒त् । प॒रा॒ऽवृक् । प्रति॑ । श्रो॒णः । स्था॒त् । वि । अ॒नक् । अ॒च॒ष्ट॒ । सोम॑स्य । ता । मदे॑ । इन्द्रः॑ । च॒का॒र॒ ॥
सः । विद्वान् । अपऽगोहम् । कनीनाम् । आविः । भवन् । उत् । अतिष्ठत् । पराऽवृक् । प्रति । श्रोणः । स्थात् । वि । अनक् । अचष्ट । सोमस्य । ता । मदे । इन्द्रः । चकार ॥