rigveda/2/15/6

सोद॑ञ्चं॒ सिन्धु॑मरिणान्महि॒त्वा वज्रे॒णान॑ उ॒षसः॒ सं पि॑पेष। अ॒ज॒वसो॑ ज॒विनी॑भिर्विवृ॒श्चन्त्सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार॥

सः । उद॑ञ्चम् । सिन्धु॑म् । अ॒रि॒णा॒त् । म॒हि॒त्वा । वज्रे॑ण । अनः॑ । उ॒षसः॑ । सम् । पि॒पे॒ष॒ । अ॒ज॒वसः॑ । ज॒विनी॑भिः । वि॒ऽवृ॒श्चन् । सोम॑स्य । ता । मदे॑ । इन्द्रः॑ । च॒का॒र॒ ॥

ऋषिः - गृत्समदः शौनकः

देवता - इन्द्र:

छन्दः - त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

सोद॑ञ्चं॒ सिन्धु॑मरिणान्महि॒त्वा वज्रे॒णान॑ उ॒षसः॒ सं पि॑पेष। अ॒ज॒वसो॑ ज॒विनी॑भिर्विवृ॒श्चन्त्सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार॥

स्वर सहित पद पाठ

सः । उद॑ञ्चम् । सिन्धु॑म् । अ॒रि॒णा॒त् । म॒हि॒त्वा । वज्रे॑ण । अनः॑ । उ॒षसः॑ । सम् । पि॒पे॒ष॒ । अ॒ज॒वसः॑ । ज॒विनी॑भिः । वि॒ऽवृ॒श्चन् । सोम॑स्य । ता । मदे॑ । इन्द्रः॑ । च॒का॒र॒ ॥


स्वर रहित मन्त्र

सोदञ्चं सिन्धुमरिणान्महित्वा वज्रेणान उषसः सं पिपेष। अजवसो जविनीभिर्विवृश्चन्त्सोमस्य ता मद इन्द्रश्चकार॥


स्वर रहित पद पाठ

सः । उदञ्चम् । सिन्धुम् । अरिणात् । महित्वा । वज्रेण । अनः । उषसः । सम् । पिपेष । अजवसः । जविनीभिः । विऽवृश्चन् । सोमस्य । ता । मदे । इन्द्रः । चकार ॥