rigveda/2/13/8

यो ना॑र्म॒रं स॒हव॑सुं॒ निह॑न्तवे पृ॒क्षाय॑ च दा॒सवे॑शाय॒ चाव॑हः। ऊ॒र्जय॑न्त्या॒ अप॑रिविष्टमा॒स्य॑मु॒तैवाद्य पु॑रुकृ॒त्सास्यु॒क्थ्यः॑॥

यः । ना॒र्म॒रम् । स॒हऽव॑सुम् । निऽह॑न्तवे । पृ॒क्षाय॑ । च॒ । दा॒सऽवे॑शाय॒ । च॒ । अव॑हः । ऊ॒र्जय॑न्त्याः । अप॑रिऽविष्टम् । आ॒स्य॑म् । उ॒त । ए॒व । अ॒द्य । पु॒रु॒ऽकृ॒त् । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥

ऋषिः - गृत्समदः शौनकः

देवता - इन्द्र:

छन्दः - भुरिक्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

यो ना॑र्म॒रं स॒हव॑सुं॒ निह॑न्तवे पृ॒क्षाय॑ च दा॒सवे॑शाय॒ चाव॑हः। ऊ॒र्जय॑न्त्या॒ अप॑रिविष्टमा॒स्य॑मु॒तैवाद्य पु॑रुकृ॒त्सास्यु॒क्थ्यः॑॥

स्वर सहित पद पाठ

यः । ना॒र्म॒रम् । स॒हऽव॑सुम् । निऽह॑न्तवे । पृ॒क्षाय॑ । च॒ । दा॒सऽवे॑शाय॒ । च॒ । अव॑हः । ऊ॒र्जय॑न्त्याः । अप॑रिऽविष्टम् । आ॒स्य॑म् । उ॒त । ए॒व । अ॒द्य । पु॒रु॒ऽकृ॒त् । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥


स्वर रहित मन्त्र

यो नार्मरं सहवसुं निहन्तवे पृक्षाय च दासवेशाय चावहः। ऊर्जयन्त्या अपरिविष्टमास्यमुतैवाद्य पुरुकृत्सास्युक्थ्यः॥


स्वर रहित पद पाठ

यः । नार्मरम् । सहऽवसुम् । निऽहन्तवे । पृक्षाय । च । दासऽवेशाय । च । अवहः । ऊर्जयन्त्याः । अपरिऽविष्टम् । आस्यम् । उत । एव । अद्य । पुरुऽकृत् । सः । असि । उक्थ्यः ॥