rigveda/2/13/7

यः पु॒ष्पिणी॑श्च प्र॒स्व॑श्च॒ धर्म॒णाधि॒ दाने॒ व्य१॒॑वनी॒रधा॑रयः। यश्चास॑मा॒ अज॑नो दि॒द्युतो॑ दि॒व उ॒रुरू॒र्वाँ अ॒भितः॒ सास्यु॒क्थ्यः॑॥

यः । पु॒ष्पिणीः॑ । च॒ । प्र॒ऽस्वः॑ । च॒ । धर्म॑णा । अधि॑ । दाने॑ । वि । अ॒वनीः॑ । अधा॑रयः । यः । च॒ । अस॑माः । अज॑नः । दि॒द्युतः॑ । दि॒वः । उ॒रुः । ऊ॒र्वान् । अ॒भितः॑ । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥

ऋषिः - गृत्समदः शौनकः

देवता - इन्द्र:

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

यः पु॒ष्पिणी॑श्च प्र॒स्व॑श्च॒ धर्म॒णाधि॒ दाने॒ व्य१॒॑वनी॒रधा॑रयः। यश्चास॑मा॒ अज॑नो दि॒द्युतो॑ दि॒व उ॒रुरू॒र्वाँ अ॒भितः॒ सास्यु॒क्थ्यः॑॥

स्वर सहित पद पाठ

यः । पु॒ष्पिणीः॑ । च॒ । प्र॒ऽस्वः॑ । च॒ । धर्म॑णा । अधि॑ । दाने॑ । वि । अ॒वनीः॑ । अधा॑रयः । यः । च॒ । अस॑माः । अज॑नः । दि॒द्युतः॑ । दि॒वः । उ॒रुः । ऊ॒र्वान् । अ॒भितः॑ । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥


स्वर रहित मन्त्र

यः पुष्पिणीश्च प्रस्वश्च धर्मणाधि दाने व्य१वनीरधारयः। यश्चासमा अजनो दिद्युतो दिव उरुरूर्वाँ अभितः सास्युक्थ्यः॥


स्वर रहित पद पाठ

यः । पुष्पिणीः । च । प्रऽस्वः । च । धर्मणा । अधि । दाने । वि । अवनीः । अधारयः । यः । च । असमाः । अजनः । दिद्युतः । दिवः । उरुः । ऊर्वान् । अभितः । सः । असि । उक्थ्यः ॥