rigveda/2/13/10

विश्वेदनु॑ रोध॒ना अ॑स्य॒ पौंस्यं॑ द॒दुर॑स्मै दधि॒रे कृ॒त्नवे॒ धन॑म्। षळ॑स्तभ्ना वि॒ष्टिरः॒ पञ्च॑ सं॒दृशः॒ परि॑ प॒रो अ॑भवः॒ सास्यु॒क्थ्यः॑॥

विश्वा॑ । इत् । अनु॑ । रो॒ध॒नाः । अ॒स्य॒ । पौंस्य॑म् । द॒दुः । अ॒स्मै॒ । द॒धि॒रे । कृ॒त्नवे॑ । धन॑म् । षट् । अ॒स्त॒भ्नाः॒ । वि॒ऽस्तिरः॑ । पञ्च॑ । स॒म्ऽदृशः॑ । परि॑ । प॒रः । अ॒भ॒वः॒ । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥

ऋषिः - गृत्समदः शौनकः

देवता - इन्द्र:

छन्दः - भुरिक्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

विश्वेदनु॑ रोध॒ना अ॑स्य॒ पौंस्यं॑ द॒दुर॑स्मै दधि॒रे कृ॒त्नवे॒ धन॑म्। षळ॑स्तभ्ना वि॒ष्टिरः॒ पञ्च॑ सं॒दृशः॒ परि॑ प॒रो अ॑भवः॒ सास्यु॒क्थ्यः॑॥

स्वर सहित पद पाठ

विश्वा॑ । इत् । अनु॑ । रो॒ध॒नाः । अ॒स्य॒ । पौंस्य॑म् । द॒दुः । अ॒स्मै॒ । द॒धि॒रे । कृ॒त्नवे॑ । धन॑म् । षट् । अ॒स्त॒भ्नाः॒ । वि॒ऽस्तिरः॑ । पञ्च॑ । स॒म्ऽदृशः॑ । परि॑ । प॒रः । अ॒भ॒वः॒ । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥


स्वर रहित मन्त्र

विश्वेदनु रोधना अस्य पौंस्यं ददुरस्मै दधिरे कृत्नवे धनम्। षळस्तभ्ना विष्टिरः पञ्च संदृशः परि परो अभवः सास्युक्थ्यः॥


स्वर रहित पद पाठ

विश्वा । इत् । अनु । रोधनाः । अस्य । पौंस्यम् । ददुः । अस्मै । दधिरे । कृत्नवे । धनम् । षट् । अस्तभ्नाः । विऽस्तिरः । पञ्च । सम्ऽदृशः । परि । परः । अभवः । सः । असि । उक्थ्यः ॥