rigveda/2/11/9

इन्द्रो॑ म॒हां सिन्धु॑मा॒शया॑नं माया॒विनं॑ वृ॒त्रम॑स्फुर॒न्निः। अरे॑जेतां॒ रोद॑सी भिया॒ने कनि॑क्रदतो॒ वृष्णो॑ अस्य॒ वज्रा॑त्॥

इन्द्रः॑ । म॒हाम् । सिन्धु॑म् । आ॒ऽशया॑नम् । मा॒या॒ऽविन॑म् । वृ॒त्रम् । अ॒स्फु॒र॒त् । निः । अरे॑जेताम् । रोद॑सी॒ इति॑ । भि॒या॒ने इति॑ । कनि॑क्रदतः । वृष्णः॑ । अ॒स्य॒ । वज्रा॑त् ॥

ऋषिः - गृत्समदः शौनकः

देवता - इन्द्र:

छन्दः - भुरिक्पङ्क्ति

स्वरः - पञ्चमः

स्वर सहित मन्त्र

इन्द्रो॑ म॒हां सिन्धु॑मा॒शया॑नं माया॒विनं॑ वृ॒त्रम॑स्फुर॒न्निः। अरे॑जेतां॒ रोद॑सी भिया॒ने कनि॑क्रदतो॒ वृष्णो॑ अस्य॒ वज्रा॑त्॥

स्वर सहित पद पाठ

इन्द्रः॑ । म॒हाम् । सिन्धु॑म् । आ॒ऽशया॑नम् । मा॒या॒ऽविन॑म् । वृ॒त्रम् । अ॒स्फु॒र॒त् । निः । अरे॑जेताम् । रोद॑सी॒ इति॑ । भि॒या॒ने इति॑ । कनि॑क्रदतः । वृष्णः॑ । अ॒स्य॒ । वज्रा॑त् ॥


स्वर रहित मन्त्र

इन्द्रो महां सिन्धुमाशयानं मायाविनं वृत्रमस्फुरन्निः। अरेजेतां रोदसी भियाने कनिक्रदतो वृष्णो अस्य वज्रात्॥


स्वर रहित पद पाठ

इन्द्रः । महाम् । सिन्धुम् । आऽशयानम् । मायाऽविनम् । वृत्रम् । अस्फुरत् । निः । अरेजेताम् । रोदसी इति । भियाने इति । कनिक्रदतः । वृष्णः । अस्य । वज्रात् ॥