rigveda/2/11/4

शु॒भ्रं नु ते॒ शुष्मं॑ व॒र्धय॑न्तः शु॒भ्रं वज्रं॑ बा॒ह्वोर्दधा॑नाः। शु॒भ्रस्त्वमि॑न्द्र वावृधा॒नो अ॒स्मे दासी॒र्विशः॒ सूर्ये॑ण सह्याः॥

शु॒भ्रम् । नु । ते॒ । शुष्म॑म् । व॒र्धय॑न्तः । शु॒भ्रम् । वज्र॑म् । बा॒ह्वोः । दधा॑नाः । शु॒भ्रः । त्वम् । इ॒न्द्र॒ । व॒वृ॒धा॒नः । अ॒स्मे इति॑ । दासीः॑ । विशः॑ । सूर्ये॑ण । स॒ह्याः॒ ॥

ऋषिः - गृत्समदः शौनकः

देवता - इन्द्र:

छन्दः - निचृत्पङ्क्ति

स्वरः - पञ्चमः

स्वर सहित मन्त्र

शु॒भ्रं नु ते॒ शुष्मं॑ व॒र्धय॑न्तः शु॒भ्रं वज्रं॑ बा॒ह्वोर्दधा॑नाः। शु॒भ्रस्त्वमि॑न्द्र वावृधा॒नो अ॒स्मे दासी॒र्विशः॒ सूर्ये॑ण सह्याः॥

स्वर सहित पद पाठ

शु॒भ्रम् । नु । ते॒ । शुष्म॑म् । व॒र्धय॑न्तः । शु॒भ्रम् । वज्र॑म् । बा॒ह्वोः । दधा॑नाः । शु॒भ्रः । त्वम् । इ॒न्द्र॒ । व॒वृ॒धा॒नः । अ॒स्मे इति॑ । दासीः॑ । विशः॑ । सूर्ये॑ण । स॒ह्याः॒ ॥


स्वर रहित मन्त्र

शुभ्रं नु ते शुष्मं वर्धयन्तः शुभ्रं वज्रं बाह्वोर्दधानाः। शुभ्रस्त्वमिन्द्र वावृधानो अस्मे दासीर्विशः सूर्येण सह्याः॥


स्वर रहित पद पाठ

शुभ्रम् । नु । ते । शुष्मम् । वर्धयन्तः । शुभ्रम् । वज्रम् । बाह्वोः । दधानाः । शुभ्रः । त्वम् । इन्द्र । ववृधानः । अस्मे इति । दासीः । विशः । सूर्येण । सह्याः ॥