rigveda/2/1/12

त्वम॑ग्ने॒ सुभृ॑त उत्त॒मं वय॒स्तव॑ स्पा॒र्हे वर्ण॒ आ सं॒दृशि॒ श्रियः॑। त्वं वाजः॑ प्र॒तर॑णो बृ॒हन्न॑सि॒ त्वं र॒यिर्ब॑हु॒लो वि॒श्वत॑स्पृ॒थुः॥

त्वम् । अ॒ग्ने॒ । सुऽभृ॑तः । उ॒त्ऽत॒मम् । वयः॑ । तव॑ । स्पा॒र्हे । वर्णे॑ । आ । स॒म्ऽदृशि॑ । श्रियः॑ । त्वम् । वाजः॑ । प्र॒ऽतर॑णः । बृ॒हन् । अ॒सि॒ । त्वम् । र॒यिः । ब॒हु॒लः । वि॒श्वतः॑ । पृ॒थुः ॥

ऋषिः - आङ्गिरसः शौनहोत्रो भार्गवो गृत्समदः

देवता - अग्निः

छन्दः - भुरिक्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

त्वम॑ग्ने॒ सुभृ॑त उत्त॒मं वय॒स्तव॑ स्पा॒र्हे वर्ण॒ आ सं॒दृशि॒ श्रियः॑। त्वं वाजः॑ प्र॒तर॑णो बृ॒हन्न॑सि॒ त्वं र॒यिर्ब॑हु॒लो वि॒श्वत॑स्पृ॒थुः॥

स्वर सहित पद पाठ

त्वम् । अ॒ग्ने॒ । सुऽभृ॑तः । उ॒त्ऽत॒मम् । वयः॑ । तव॑ । स्पा॒र्हे । वर्णे॑ । आ । स॒म्ऽदृशि॑ । श्रियः॑ । त्वम् । वाजः॑ । प्र॒ऽतर॑णः । बृ॒हन् । अ॒सि॒ । त्वम् । र॒यिः । ब॒हु॒लः । वि॒श्वतः॑ । पृ॒थुः ॥


स्वर रहित मन्त्र

त्वमग्ने सुभृत उत्तमं वयस्तव स्पार्हे वर्ण आ संदृशि श्रियः। त्वं वाजः प्रतरणो बृहन्नसि त्वं रयिर्बहुलो विश्वतस्पृथुः॥


स्वर रहित पद पाठ

त्वम् । अग्ने । सुऽभृतः । उत्ऽतमम् । वयः । तव । स्पार्हे । वर्णे । आ । सम्ऽदृशि । श्रियः । त्वम् । वाजः । प्रऽतरणः । बृहन् । असि । त्वम् । रयिः । बहुलः । विश्वतः । पृथुः ॥