rigveda/10/99/6

स इद्दासं॑ तुवी॒रवं॒ पति॒र्दन्ष॑ळ॒क्षं त्रि॑शी॒र्षाणं॑ दमन्यत् । अ॒स्य त्रि॒तो न्वोज॑सा वृधा॒नो वि॒पा व॑रा॒हमयो॑अग्रया हन् ॥

सः । इत् । दास॑म् । तु॒वि॒ऽरव॑म् । पतिः॑ । दन् ष॒ट्ऽऽअ॒क्षम् । त्रि॒ऽशी॒र्षाणम् । द॒म॒न्य॒त् । अ॒स्य । त्रि॒तः । नु । ओज॑सा । वृ॒धा॒नः । वि॒पा । व॒रा॒हम् । अयः॑ऽअग्रया । ह॒न्निति॑ हन् ॥

ऋषिः - वम्रो वैखानसः

देवता - इन्द्र:

छन्दः - विराट्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

स इद्दासं॑ तुवी॒रवं॒ पति॒र्दन्ष॑ळ॒क्षं त्रि॑शी॒र्षाणं॑ दमन्यत् । अ॒स्य त्रि॒तो न्वोज॑सा वृधा॒नो वि॒पा व॑रा॒हमयो॑अग्रया हन् ॥

स्वर सहित पद पाठ

सः । इत् । दास॑म् । तु॒वि॒ऽरव॑म् । पतिः॑ । दन् ष॒ट्ऽऽअ॒क्षम् । त्रि॒ऽशी॒र्षाणम् । द॒म॒न्य॒त् । अ॒स्य । त्रि॒तः । नु । ओज॑सा । वृ॒धा॒नः । वि॒पा । व॒रा॒हम् । अयः॑ऽअग्रया । ह॒न्निति॑ हन् ॥


स्वर रहित मन्त्र

स इद्दासं तुवीरवं पतिर्दन्षळक्षं त्रिशीर्षाणं दमन्यत् । अस्य त्रितो न्वोजसा वृधानो विपा वराहमयोअग्रया हन् ॥


स्वर रहित पद पाठ

सः । इत् । दासम् । तुविऽरवम् । पतिः । दन् षट्ऽऽअक्षम् । त्रिऽशीर्षाणम् । दमन्यत् । अस्य । त्रितः । नु । ओजसा । वृधानः । विपा । वराहम् । अयःऽअग्रया । हन्निति हन् ॥