rigveda/10/97/6

यत्रौष॑धीः स॒मग्म॑त॒ राजा॑न॒: समि॑ताविव । विप्र॒: स उ॑च्यते भि॒षग्र॑क्षो॒हामी॑व॒चात॑नः ॥

यत्र॑ । ओष॑धीः । स॒म्ऽअग्म॑त । राजा॑नः । समि॑तौऽइव । विप्रः॑ । सः । उ॒च्य॒ते॒ । भि॒षक् । र॒क्षः॒ऽहा । अ॒मी॒व॒ऽचात॑नः ॥

ऋषिः - भिषगाथर्वणः

देवता - औषधीस्तुतिः

छन्दः - अनुष्टुप्

स्वरः - गान्धारः

स्वर सहित मन्त्र

यत्रौष॑धीः स॒मग्म॑त॒ राजा॑न॒: समि॑ताविव । विप्र॒: स उ॑च्यते भि॒षग्र॑क्षो॒हामी॑व॒चात॑नः ॥

स्वर सहित पद पाठ

यत्र॑ । ओष॑धीः । स॒म्ऽअग्म॑त । राजा॑नः । समि॑तौऽइव । विप्रः॑ । सः । उ॒च्य॒ते॒ । भि॒षक् । र॒क्षः॒ऽहा । अ॒मी॒व॒ऽचात॑नः ॥


स्वर रहित मन्त्र

यत्रौषधीः समग्मत राजान: समिताविव । विप्र: स उच्यते भिषग्रक्षोहामीवचातनः ॥


स्वर रहित पद पाठ

यत्र । ओषधीः । सम्ऽअग्मत । राजानः । समितौऽइव । विप्रः । सः । उच्यते । भिषक् । रक्षःऽहा । अमीवऽचातनः ॥