ऋषिः - भिषगाथर्वणः

देवता - औषधीस्तुतिः

छन्दः - निचृदनुष्टुप्

स्वरः - गान्धारः

PreviousNext
स्वर सहित मन्त्र

ओष॑धी॒ः प्रति॑ मोदध्वं॒ पुष्प॑वतीः प्र॒सूव॑रीः । अश्वा॑ इव स॒जित्व॑रीर्वी॒रुध॑ः पारयि॒ष्ण्व॑ः ॥

स्वर सहित पद पाठ

ओष॑धीः । प्रति॑ । मो॒द॒ध्व॒म् । पुष्प॑ऽवतीः । प्र॒ऽसूव॑रीः । अश्वाः॑ऽइव । स॒ऽजित्व॑रीः । वी॒रुधः॑ । पा॒र॒यि॒ष्ण्वः॑ ॥


स्वर रहित मन्त्र

ओषधीः प्रति मोदध्वं पुष्पवतीः प्रसूवरीः । अश्वा इव सजित्वरीर्वीरुधः पारयिष्ण्वः ॥


स्वर रहित पद पाठ

ओषधीः । प्रति । मोदध्वम् । पुष्पऽवतीः । प्रऽसूवरीः । अश्वाःऽइव । सऽजित्वरीः । वीरुधः । पारयिष्ण्वः ॥