rigveda/10/97/17

अ॒व॒पत॑न्तीरवदन्दि॒व ओष॑धय॒स्परि॑ । यं जी॒वम॒श्नवा॑महै॒ न स रि॑ष्याति॒ पूरु॑षः ॥

अ॒व॒ऽपत॑न्तीः । अ॒व॒द॒न् । दि॒वः । ओष॑धयः । परि॑ । यम् । जी॒वम् । अ॒श्नवा॑महै । न । सः । रि॒ष्या॒ति॒ । पुरु॑षः ॥

ऋषिः - भिषगाथर्वणः

देवता - औषधीस्तुतिः

छन्दः - अनुष्टुप्

स्वरः - गान्धारः

स्वर सहित मन्त्र

अ॒व॒पत॑न्तीरवदन्दि॒व ओष॑धय॒स्परि॑ । यं जी॒वम॒श्नवा॑महै॒ न स रि॑ष्याति॒ पूरु॑षः ॥

स्वर सहित पद पाठ

अ॒व॒ऽपत॑न्तीः । अ॒व॒द॒न् । दि॒वः । ओष॑धयः । परि॑ । यम् । जी॒वम् । अ॒श्नवा॑महै । न । सः । रि॒ष्या॒ति॒ । पुरु॑षः ॥


स्वर रहित मन्त्र

अवपतन्तीरवदन्दिव ओषधयस्परि । यं जीवमश्नवामहै न स रिष्याति पूरुषः ॥


स्वर रहित पद पाठ

अवऽपतन्तीः । अवदन् । दिवः । ओषधयः । परि । यम् । जीवम् । अश्नवामहै । न । सः । रिष्याति । पुरुषः ॥