rigveda/10/96/7

अरं॒ कामा॑य॒ हर॑यो दधन्विरे स्थि॒राय॑ हिन्व॒न्हर॑यो॒ हरी॑ तु॒रा । अर्व॑द्भि॒र्यो हरि॑भि॒र्जोष॒मीय॑ते॒ सो अ॑स्य॒ कामं॒ हरि॑वन्तमानशे ॥

अर॑म् । कामा॑य । हर॑यः । द॒ध॒न्वि॒रे॒ । स्थि॒राय॑ । हि॒न्व॒न् । हर॑यः । हरी॒ इति॑ । तु॒रा । अर्व॑त्ऽभिः । यः । हरि॑ऽभिः । जोष॑म् । ईय॑ते । सः । अ॒स्य॒ । काम॑म् । हरि॑ऽवन्तम् । आ॒न॒शे॒ ॥

ऋषिः - बरुः सर्वहरिर्वैन्द्रः

देवता - हरिस्तुतिः

छन्दः - जगती

स्वरः - निषादः

स्वर सहित मन्त्र

अरं॒ कामा॑य॒ हर॑यो दधन्विरे स्थि॒राय॑ हिन्व॒न्हर॑यो॒ हरी॑ तु॒रा । अर्व॑द्भि॒र्यो हरि॑भि॒र्जोष॒मीय॑ते॒ सो अ॑स्य॒ कामं॒ हरि॑वन्तमानशे ॥

स्वर सहित पद पाठ

अर॑म् । कामा॑य । हर॑यः । द॒ध॒न्वि॒रे॒ । स्थि॒राय॑ । हि॒न्व॒न् । हर॑यः । हरी॒ इति॑ । तु॒रा । अर्व॑त्ऽभिः । यः । हरि॑ऽभिः । जोष॑म् । ईय॑ते । सः । अ॒स्य॒ । काम॑म् । हरि॑ऽवन्तम् । आ॒न॒शे॒ ॥


स्वर रहित मन्त्र

अरं कामाय हरयो दधन्विरे स्थिराय हिन्वन्हरयो हरी तुरा । अर्वद्भिर्यो हरिभिर्जोषमीयते सो अस्य कामं हरिवन्तमानशे ॥


स्वर रहित पद पाठ

अरम् । कामाय । हरयः । दधन्विरे । स्थिराय । हिन्वन् । हरयः । हरी इति । तुरा । अर्वत्ऽभिः । यः । हरिऽभिः । जोषम् । ईयते । सः । अस्य । कामम् । हरिऽवन्तम् । आनशे ॥