rigveda/10/96/2
ऋषिः - बरुः सर्वहरिर्वैन्द्रः
देवता - हरिस्तुतिः
छन्दः - निचृज्जगती
स्वरः - निषादः
हरि॑म् । हि । योनि॑म् । अ॒भि । ये । स॒म्ऽअस्व॑रन् । हि॒न्वन्तः॑ । हरी॒ इति॑ । दि॒व्यम् । यथा॑ । सदः॑ । आ । यम् । पृ॒णन्ति॑ । हरि॑ऽभिः । न । धे॒नवः॑ । इन्द्रा॑य । शू॒षम् । हरि॑ऽवन्तम् । अ॒र्च॒त॒ ॥
हरिम् । हि । योनिम् । अभि । ये । सम्ऽअस्वरन् । हिन्वन्तः । हरी इति । दिव्यम् । यथा । सदः । आ । यम् । पृणन्ति । हरिऽभिः । न । धेनवः । इन्द्राय । शूषम् । हरिऽवन्तम् । अर्चत ॥