rigveda/10/94/7

दशा॑वनिभ्यो॒ दश॑कक्ष्येभ्यो॒ दश॑योक्त्रेभ्यो॒ दश॑योजनेभ्यः । दशा॑भीशुभ्यो अर्चता॒जरे॑भ्यो॒ दश॒ धुरो॒ दश॑ यु॒क्ता वह॑द्भ्यः ॥

दशा॑वनिऽभ्यः॑ । दश॑कक्ष्येभ्यः । दश॑ऽयोक्त्रेभ्यः । दश॑ऽयोजनेभ्यः । दशा॑भीशुऽभ्यः । अ॒र्च॒त॒ । अ॒जरे॑भ्यः । दश॑ । धुरः॑ । दश॑ । यु॒क्ताः । वह॑त्ऽभ्यः ॥

ऋषिः - अर्बुदः काद्रवेयः सर्पः

देवता - ग्रावाणः

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

दशा॑वनिभ्यो॒ दश॑कक्ष्येभ्यो॒ दश॑योक्त्रेभ्यो॒ दश॑योजनेभ्यः । दशा॑भीशुभ्यो अर्चता॒जरे॑भ्यो॒ दश॒ धुरो॒ दश॑ यु॒क्ता वह॑द्भ्यः ॥

स्वर सहित पद पाठ

दशा॑वनिऽभ्यः॑ । दश॑कक्ष्येभ्यः । दश॑ऽयोक्त्रेभ्यः । दश॑ऽयोजनेभ्यः । दशा॑भीशुऽभ्यः । अ॒र्च॒त॒ । अ॒जरे॑भ्यः । दश॑ । धुरः॑ । दश॑ । यु॒क्ताः । वह॑त्ऽभ्यः ॥


स्वर रहित मन्त्र

दशावनिभ्यो दशकक्ष्येभ्यो दशयोक्त्रेभ्यो दशयोजनेभ्यः । दशाभीशुभ्यो अर्चताजरेभ्यो दश धुरो दश युक्ता वहद्भ्यः ॥


स्वर रहित पद पाठ

दशावनिऽभ्यः । दशकक्ष्येभ्यः । दशऽयोक्त्रेभ्यः । दशऽयोजनेभ्यः । दशाभीशुऽभ्यः । अर्चत । अजरेभ्यः । दश । धुरः । दश । युक्ताः । वहत्ऽभ्यः ॥