rigveda/10/93/8

ऋ॒भुॠ॑भु॒क्षा ऋ॒भुर्वि॑ध॒तो मद॒ आ ते॒ हरी॑ जूजुवा॒नस्य॑ वा॒जिना॑ । दु॒ष्टरं॒ यस्य॒ साम॑ चि॒दृध॑ग्य॒ज्ञो न मानु॑षः ॥

ऋ॒भुः । ऋ॒भु॒क्षाः । ऋ॒भुः । वि॒ध॒तः । मदः॑ । आ । ते॒ । हरी॒ इति॑ । जू॒जु॒वा॒नस्य॑ । वा॒जिना॑ । दु॒स्तर॑म् । यस्य॑ । साम॑ । चि॒त् । ऋध॑क् । य॒ज्ञः । न । मानु॑षः ॥

ऋषिः - तान्वः पार्थ्यः

देवता - विश्वेदेवा:

छन्दः - आस्तारपङ्क्ति

स्वरः - पञ्चमः

स्वर सहित मन्त्र

ऋ॒भुॠ॑भु॒क्षा ऋ॒भुर्वि॑ध॒तो मद॒ आ ते॒ हरी॑ जूजुवा॒नस्य॑ वा॒जिना॑ । दु॒ष्टरं॒ यस्य॒ साम॑ चि॒दृध॑ग्य॒ज्ञो न मानु॑षः ॥

स्वर सहित पद पाठ

ऋ॒भुः । ऋ॒भु॒क्षाः । ऋ॒भुः । वि॒ध॒तः । मदः॑ । आ । ते॒ । हरी॒ इति॑ । जू॒जु॒वा॒नस्य॑ । वा॒जिना॑ । दु॒स्तर॑म् । यस्य॑ । साम॑ । चि॒त् । ऋध॑क् । य॒ज्ञः । न । मानु॑षः ॥


स्वर रहित मन्त्र

ऋभुॠभुक्षा ऋभुर्विधतो मद आ ते हरी जूजुवानस्य वाजिना । दुष्टरं यस्य साम चिदृधग्यज्ञो न मानुषः ॥


स्वर रहित पद पाठ

ऋभुः । ऋभुक्षाः । ऋभुः । विधतः । मदः । आ । ते । हरी इति । जूजुवानस्य । वाजिना । दुस्तरम् । यस्य । साम । चित् । ऋधक् । यज्ञः । न । मानुषः ॥