rigveda/10/92/4

ऋ॒तस्य॒ हि प्रसि॑ति॒र्द्यौरु॒रु व्यचो॒ नमो॑ म॒ह्य१॒॑रम॑ति॒: पनी॑यसी । इन्द्रो॑ मि॒त्रो वरु॑ण॒: सं चि॑कित्रि॒रेऽथो॒ भग॑: सवि॒ता पू॒तद॑क्षसः ॥

ऋ॒तस्य॑ । हि । प्रऽसि॑तिः । द्यौः । उ॒रु । व्यचः॑ । नमः॑ । म॒ही । अ॒रम॑तिः । पना॑यसी । इन्द्रः॑ । मि॒त्रः । वरु॑णः । सम् । चि॒कि॒त्रि॒रे । अथो॒ इति॑ । भगः॑ । स॒वि॒ता । पू॒तऽद॑क्षसः ॥

ऋषिः - शार्यातो मानवः

देवता - विश्वेदेवा:

छन्दः - विराड्जगती

स्वरः - निषादः

स्वर सहित मन्त्र

ऋ॒तस्य॒ हि प्रसि॑ति॒र्द्यौरु॒रु व्यचो॒ नमो॑ म॒ह्य१॒॑रम॑ति॒: पनी॑यसी । इन्द्रो॑ मि॒त्रो वरु॑ण॒: सं चि॑कित्रि॒रेऽथो॒ भग॑: सवि॒ता पू॒तद॑क्षसः ॥

स्वर सहित पद पाठ

ऋ॒तस्य॑ । हि । प्रऽसि॑तिः । द्यौः । उ॒रु । व्यचः॑ । नमः॑ । म॒ही । अ॒रम॑तिः । पना॑यसी । इन्द्रः॑ । मि॒त्रः । वरु॑णः । सम् । चि॒कि॒त्रि॒रे । अथो॒ इति॑ । भगः॑ । स॒वि॒ता । पू॒तऽद॑क्षसः ॥


स्वर रहित मन्त्र

ऋतस्य हि प्रसितिर्द्यौरुरु व्यचो नमो मह्य१रमति: पनीयसी । इन्द्रो मित्रो वरुण: सं चिकित्रिरेऽथो भग: सविता पूतदक्षसः ॥


स्वर रहित पद पाठ

ऋतस्य । हि । प्रऽसितिः । द्यौः । उरु । व्यचः । नमः । मही । अरमतिः । पनायसी । इन्द्रः । मित्रः । वरुणः । सम् । चिकित्रिरे । अथो इति । भगः । सविता । पूतऽदक्षसः ॥