ऋषिः - नारायणः

देवता - पुरुषः

छन्दः - निचृदनुष्टुप्

स्वरः - गान्धारः

PreviousNext
स्वर सहित मन्त्र

ब्रा॒ह्म॒णो॑ऽस्य॒ मुख॑मासीद्बा॒हू रा॑ज॒न्य॑ः कृ॒तः । ऊ॒रू तद॑स्य॒ यद्वैश्य॑ः प॒द्भ्यां शू॒द्रो अ॑जायत ॥

स्वर सहित पद पाठ

ब्रा॒ह्म॒णः॑ । अ॒स्य॒ । मुख॑म् । आ॒सी॒त् बा॒हू इति॑ । रा॒ज॒न्यः॑ । कृ॒तः । ऊ॒रू इति॑ । तत् । अ॒स्य॒ । यत् । वैश्यः॑ । प॒त्ऽभ्याम् । शू॒द्रः । अ॒जा॒य॒त॒ ॥


स्वर रहित मन्त्र

ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥


स्वर रहित पद पाठ

ब्राह्मणः । अस्य । मुखम् । आसीत् बाहू इति । राजन्यः । कृतः । ऊरू इति । तत् । अस्य । यत् । वैश्यः । पत्ऽभ्याम् । शूद्रः । अजायत ॥