rigveda/10/88/4

यो होतासी॑त्प्रथ॒मो दे॒वजु॑ष्टो॒ यं स॒माञ्ज॒न्नाज्ये॑ना वृणा॒नाः । स प॑त॒त्री॑त्व॒रं स्था जग॒द्यच्छ्वा॒त्रम॒ग्निर॑कृणोज्जा॒तवे॑दाः ॥

यः । होता॑ । आसी॑त् । प्र॒थ॒मः । दे॒वऽजु॑ष्टः । यम् । स॒म्ऽआञ्ज॑न् । आज्ये॑न । वृ॒णा॒नाः । सः । प॒त॒त्रि । इ॒त्व॒रम् । स्थाः । जग॑त् । यत् । श्वा॒त्रम् । अ॒ग्निः । अ॒कृ॒णो॒त् । जा॒तऽवे॑दाः ॥

ऋषिः - मूर्धन्वानाङ्गिरसो वामदेव्यो वा

देवता - सूर्यवैश्वानरौ

छन्दः - विराट्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

यो होतासी॑त्प्रथ॒मो दे॒वजु॑ष्टो॒ यं स॒माञ्ज॒न्नाज्ये॑ना वृणा॒नाः । स प॑त॒त्री॑त्व॒रं स्था जग॒द्यच्छ्वा॒त्रम॒ग्निर॑कृणोज्जा॒तवे॑दाः ॥

स्वर सहित पद पाठ

यः । होता॑ । आसी॑त् । प्र॒थ॒मः । दे॒वऽजु॑ष्टः । यम् । स॒म्ऽआञ्ज॑न् । आज्ये॑न । वृ॒णा॒नाः । सः । प॒त॒त्रि । इ॒त्व॒रम् । स्थाः । जग॑त् । यत् । श्वा॒त्रम् । अ॒ग्निः । अ॒कृ॒णो॒त् । जा॒तऽवे॑दाः ॥


स्वर रहित मन्त्र

यो होतासीत्प्रथमो देवजुष्टो यं समाञ्जन्नाज्येना वृणानाः । स पतत्रीत्वरं स्था जगद्यच्छ्वात्रमग्निरकृणोज्जातवेदाः ॥


स्वर रहित पद पाठ

यः । होता । आसीत् । प्रथमः । देवऽजुष्टः । यम् । सम्ऽआञ्जन् । आज्येन । वृणानाः । सः । पतत्रि । इत्वरम् । स्थाः । जगत् । यत् । श्वात्रम् । अग्निः । अकृणोत् । जातऽवेदाः ॥