rigveda/10/88/3
ऋषिः - मूर्धन्वानाङ्गिरसो वामदेव्यो वा
देवता - सूर्यवैश्वानरौ
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
दे॒वेभिः॑ । नु । इ॒षि॒तः । य॒ज्ञिये॑भिः । अ॒ग्निम् । स्तो॒षा॒णि॒ । अ॒जर॑म् । बृ॒हन्त॑म् । यः । भा॒नुना॑ । पृ॒थि॒वीम् । द्याम् । उ॒त । इ॒माम् । आ॒त॒तान॑ । रोद॑सी॒ इति॑ । अ॒न्तरि॑क्षम् ॥
देवेभिः । नु । इषितः । यज्ञियेभिः । अग्निम् । स्तोषाणि । अजरम् । बृहन्तम् । यः । भानुना । पृथिवीम् । द्याम् । उत । इमाम् । आततान । रोदसी इति । अन्तरिक्षम् ॥