rigveda/10/88/2

गी॒र्णं भुव॑नं॒ तम॒साप॑गूळ्हमा॒विः स्व॑रभवज्जा॒ते अ॒ग्नौ । तस्य॑ दे॒वाः पृ॑थि॒वी द्यौरु॒तापोऽर॑णय॒न्नोष॑धीः स॒ख्ये अ॑स्य ॥

गी॒र्णम् । भुव॑नम् । तम॑सा । अप॑ऽगूळ्हम् । आ॒विः । स्वः॑ । अ॒भ॒व॒त् । जा॒ते । अ॒ग्नौ । तस्य॑ । दे॒वाः । पृ॒थि॒वी । द्यौः । उ॒त । आपः॑ । अर॑णयन् । ओष॑धीः । स॒ख्ये । अ॒स्य॒ ॥

ऋषिः - मूर्धन्वानाङ्गिरसो वामदेव्यो वा

देवता - सूर्यवैश्वानरौ

छन्दः - विराट्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

गी॒र्णं भुव॑नं॒ तम॒साप॑गूळ्हमा॒विः स्व॑रभवज्जा॒ते अ॒ग्नौ । तस्य॑ दे॒वाः पृ॑थि॒वी द्यौरु॒तापोऽर॑णय॒न्नोष॑धीः स॒ख्ये अ॑स्य ॥

स्वर सहित पद पाठ

गी॒र्णम् । भुव॑नम् । तम॑सा । अप॑ऽगूळ्हम् । आ॒विः । स्वः॑ । अ॒भ॒व॒त् । जा॒ते । अ॒ग्नौ । तस्य॑ । दे॒वाः । पृ॒थि॒वी । द्यौः । उ॒त । आपः॑ । अर॑णयन् । ओष॑धीः । स॒ख्ये । अ॒स्य॒ ॥


स्वर रहित मन्त्र

गीर्णं भुवनं तमसापगूळ्हमाविः स्वरभवज्जाते अग्नौ । तस्य देवाः पृथिवी द्यौरुतापोऽरणयन्नोषधीः सख्ये अस्य ॥


स्वर रहित पद पाठ

गीर्णम् । भुवनम् । तमसा । अपऽगूळ्हम् । आविः । स्वः । अभवत् । जाते । अग्नौ । तस्य । देवाः । पृथिवी । द्यौः । उत । आपः । अरणयन् । ओषधीः । सख्ये । अस्य ॥