rigveda/10/88/14

वै॒श्वा॒न॒रं वि॒श्वहा॑ दीदि॒वांसं॒ मन्त्रै॑र॒ग्निं क॒विमच्छा॑ वदामः । यो म॑हि॒म्ना प॑रिब॒भूवो॒र्वी उ॒तावस्ता॑दु॒त दे॒वः प॒रस्ता॑त् ॥

वै॒श्वा॒न॒रम् । वि॒श्वहा॑ । दी॒दि॒ऽवांस॑म् । मन्त्रैः॑ । अ॒ग्निम् । क॒विम् । अच्छ॑ । व॒दा॒मः॒ । यः । म॒हि॒म्ना । प॒रि॒ऽब॒भूव॑ । उ॒र्वी इति॑ । उ॒त । अ॒वस्ता॑त् । उ॒त । दे॒वः । प॒रस्ता॑त् ॥

ऋषिः - मूर्धन्वानाङ्गिरसो वामदेव्यो वा

देवता - सूर्यवैश्वानरौ

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

वै॒श्वा॒न॒रं वि॒श्वहा॑ दीदि॒वांसं॒ मन्त्रै॑र॒ग्निं क॒विमच्छा॑ वदामः । यो म॑हि॒म्ना प॑रिब॒भूवो॒र्वी उ॒तावस्ता॑दु॒त दे॒वः प॒रस्ता॑त् ॥

स्वर सहित पद पाठ

वै॒श्वा॒न॒रम् । वि॒श्वहा॑ । दी॒दि॒ऽवांस॑म् । मन्त्रैः॑ । अ॒ग्निम् । क॒विम् । अच्छ॑ । व॒दा॒मः॒ । यः । म॒हि॒म्ना । प॒रि॒ऽब॒भूव॑ । उ॒र्वी इति॑ । उ॒त । अ॒वस्ता॑त् । उ॒त । दे॒वः । प॒रस्ता॑त् ॥


स्वर रहित मन्त्र

वैश्वानरं विश्वहा दीदिवांसं मन्त्रैरग्निं कविमच्छा वदामः । यो महिम्ना परिबभूवोर्वी उतावस्तादुत देवः परस्तात् ॥


स्वर रहित पद पाठ

वैश्वानरम् । विश्वहा । दीदिऽवांसम् । मन्त्रैः । अग्निम् । कविम् । अच्छ । वदामः । यः । महिम्ना । परिऽबभूव । उर्वी इति । उत । अवस्तात् । उत । देवः । परस्तात् ॥