rigveda/10/88/13

वै॒श्वा॒न॒रं क॒वयो॑ य॒ज्ञिया॑सो॒ऽग्निं दे॒वा अ॑जनयन्नजु॒र्यम् । नक्ष॑त्रं प्र॒त्नममि॑नच्चरि॒ष्णु य॒क्षस्याध्य॑क्षं तवि॒षं बृ॒हन्त॑म् ॥

वै॒श्वा॒न॒रम् । क॒वयः॑ । य॒ज्ञियाः॑ । अ॒ग्निम् । दे॒वाः । अ॒ज॒न॒य॒न् । अ॒जु॒र्यम् । नक्ष॑त्रम् । प्र॒त्नम् । अमि॑नत् । च॒रि॒ष्णु । य॒क्षस्य॑ । अधि॑ऽअक्षम् । त॒वि॒षम् । बृ॒हन्त॑म् ॥

ऋषिः - मूर्धन्वानाङ्गिरसो वामदेव्यो वा

देवता - सूर्यवैश्वानरौ

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

वै॒श्वा॒न॒रं क॒वयो॑ य॒ज्ञिया॑सो॒ऽग्निं दे॒वा अ॑जनयन्नजु॒र्यम् । नक्ष॑त्रं प्र॒त्नममि॑नच्चरि॒ष्णु य॒क्षस्याध्य॑क्षं तवि॒षं बृ॒हन्त॑म् ॥

स्वर सहित पद पाठ

वै॒श्वा॒न॒रम् । क॒वयः॑ । य॒ज्ञियाः॑ । अ॒ग्निम् । दे॒वाः । अ॒ज॒न॒य॒न् । अ॒जु॒र्यम् । नक्ष॑त्रम् । प्र॒त्नम् । अमि॑नत् । च॒रि॒ष्णु । य॒क्षस्य॑ । अधि॑ऽअक्षम् । त॒वि॒षम् । बृ॒हन्त॑म् ॥


स्वर रहित मन्त्र

वैश्वानरं कवयो यज्ञियासोऽग्निं देवा अजनयन्नजुर्यम् । नक्षत्रं प्रत्नममिनच्चरिष्णु यक्षस्याध्यक्षं तविषं बृहन्तम् ॥


स्वर रहित पद पाठ

वैश्वानरम् । कवयः । यज्ञियाः । अग्निम् । देवाः । अजनयन् । अजुर्यम् । नक्षत्रम् । प्रत्नम् । अमिनत् । चरिष्णु । यक्षस्य । अधिऽअक्षम् । तविषम् । बृहन्तम् ॥