rigveda/10/87/5
ऋषिः - पायुः
देवता - अग्नी रक्षोहा
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
अग्ने॑ । त्वच॑म् । या॒तु॒ऽधान॑स्य । भि॒न्धि॒ । हिं॒स्रा । अ॒शनिः॑ । हर॑सा । ह॒न्तु॒ । ए॒न॒म् । प्र । पर्वा॑णि । जा॒त॒ऽवे॒दः॒ । शृ॒णी॒हि॒ । क्र॒व्यात् । क्र॒वि॒ष्णुः । वि । चि॒नो॒तु॒ । वृ॒क्णम् ॥
अग्ने । त्वचम् । यातुऽधानस्य । भिन्धि । हिंस्रा । अशनिः । हरसा । हन्तु । एनम् । प्र । पर्वाणि । जातऽवेदः । शृणीहि । क्रव्यात् । क्रविष्णुः । वि । चिनोतु । वृक्णम् ॥