rigveda/10/85/35

आ॒शस॑नं वि॒शस॑न॒मथो॑ अधिवि॒कर्त॑नम् । सू॒र्याया॑: पश्य रू॒पाणि॒ तानि॑ ब्र॒ह्मा तु शु॑न्धति ॥

आ॒ऽशस॑नम् । वि॒ऽशस॑नम् । अथो॒ इति॑ । अ॒धि॒ऽवि॒कर्त॑नम् । सू॒र्यायाः॑ । प॒श्य॒ । रू॒पाणि॑ । तानि॑ । ब्र॒ह्मा । तु । शु॒न्ध॒ति॒ ॥

ऋषिः - सूर्या सावित्री

देवता - सूर्या

छन्दः - अनुष्टुप्

स्वरः - गान्धारः

स्वर सहित मन्त्र

आ॒शस॑नं वि॒शस॑न॒मथो॑ अधिवि॒कर्त॑नम् । सू॒र्याया॑: पश्य रू॒पाणि॒ तानि॑ ब्र॒ह्मा तु शु॑न्धति ॥

स्वर सहित पद पाठ

आ॒ऽशस॑नम् । वि॒ऽशस॑नम् । अथो॒ इति॑ । अ॒धि॒ऽवि॒कर्त॑नम् । सू॒र्यायाः॑ । प॒श्य॒ । रू॒पाणि॑ । तानि॑ । ब्र॒ह्मा । तु । शु॒न्ध॒ति॒ ॥


स्वर रहित मन्त्र

आशसनं विशसनमथो अधिविकर्तनम् । सूर्याया: पश्य रूपाणि तानि ब्रह्मा तु शुन्धति ॥


स्वर रहित पद पाठ

आऽशसनम् । विऽशसनम् । अथो इति । अधिऽविकर्तनम् । सूर्यायाः । पश्य । रूपाणि । तानि । ब्रह्मा । तु । शुन्धति ॥